सार्थ श्रीसत्यनारायण पूजा - कथा - संस्कृत
|| श्री सत्यनारायण भगवान की जय ||
॥ शांताकारं भुजगशयनं पद्मनाभं सुरेशं। विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं । वंदे विष्णु:भवभयहरं सर्वलोकैकनाथम् ॥
श्रीसत्यनारायण -कथा-प्रारंभ:- अध्याय पहिला
अथ कथा: । श्रीगणेशाय नम: ॥ एकदा नैमिषारण्ये
ऋषय: शौनकादय: ॥ पप्रच्छुर्मुनय: सर्वे सूतं
पौराणिकं खलु ॥१॥
ऋषय ऊचु: ॥ व्रतेन तपसा किं वा प्राप्यते वांछितं
फलम् । तत्सर्वं श्रोतुमिच्छाम: कथयस्व महामुने ॥२॥
सूत उवाच ॥ नारादेनैव संपृष्टो भगवान्कमलापति: ॥
सुरर्षये यथैवाह तच्छृणुध्वं समाहिता: ॥३॥
एकदा नारदो योगी परानुग्रहकांक्षया ॥
पर्यटन्विविधान्लोकान्मर्त्यलोकमुपागत: ॥४॥
ततो दृष्ट्वा जनान्सर्वान्नानाक्लेशसमन्वितान्नानायोनि
॥५॥
केनोपायेन चैतेषां दु:खनाशो भवेद्ध्रुवम् ॥ इति
संचित्य मनसा विष्णुलोकं गतस्तदा ॥६॥
तत्र नारायणं देवं शुक्लवर्णं
चतुर्भुजम् । शंखचक्रगदापद्मवनमालाविभूषितम् ॥७॥
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ॥ नारद उवाच ॥
नमो वाङ्मनसातीतस्वरूपायोनंतशक्तये ॥८॥
आदिमध्यांतहीनाय निर्गुणाय गुणात्मने ॥
सर्वेषामादिभूताय भक्तानांमार्तिनाशिने ॥९॥
श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ।
श्रीभगवान्नुवाच ॥
किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते ॥ कथयस्व
महाभाग तत्सर्वं कथयामि ते ॥१०॥
नारद उवाच ॥ मर्त्यलोके जना: सर्वे
नानाक्लेशसमन्विता: । ननायोनिसमुत्पन्ना: पच्यंते
पापकर्मभि: ॥११॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद ॥ श्रोतुमिच्छामि
तत्सर्वं कृपाऽस्ति यदि ते मयि ॥१२॥
श्री भगवानुवाच ॥ साधु पृष्टं त्वया वत्स
लोकानुग्रहकांक्षया ॥ यत्कृत्वा मुच्यते मोहाच्छृणुष्व
वदामि ते ॥१३॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ॥ तव
स्नेहान्मया वत्स प्रकाश: क्रियतेऽधुना ॥१४॥
सत्यनारायणस्यैवं व्रतं सम्यग्विधानत: ॥ कृत्वा सद्य:
सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् ॥१५॥
तच्छ्रुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥ नारद उवाच
॥ किं फलं किं विधानं च कृतं केन वै तद् व्रतम् ॥१६॥
तत्सर्वं विस्तराद्ब्रूहि कदा कार्यं हि तद् व्रतम् ॥
श्रीभगवानुवाच ॥ दु:खशोकादिशमनं
धनधान्यप्रवर्धनम् ॥१७॥
सौभाग्यसंततिकरं सर्वत्र विजयप्रदम् ॥
यस्मिन्कस्मिन्दिने मर्त्यो भक्तिश्रद्धासमन्वित: ॥१८॥
सत्यनारायणं देवं यजैच्चैव निशा मुखे ॥
ब्राह्मणैर्बांधवैश्चैव सहितो धर्मतत्पर: ॥१९॥
नैवेद्यं भक्तितो दद्यात्सपादम् भक्ष्यमुत्तमम् ॥ रंभाफलं
घृतं क्षीरं गोधूमस्य च चूर्णकम् ॥२०॥
अभावे शालिचूर्णं वा शर्करां च गुडं तथा ॥ सपादं
सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥२१॥
विप्राय दक्षिणां दद्यात्कथां श्रुत्वा जनै: सह ॥ ततश्च
बंधुभि: सार्धं विप्रांश्च प्रतिभोजयेत् ॥२२॥
सपादं भक्षयेद्भक्त्या नृत्यगीतादिकं चरेत् ॥ ततश्च
स्वगृहं गच्छेत्सत्यनारायणं स्मरन् ॥२३॥
एवं कृते मनुष्याणां वांछासिद्धिर्भवेद्ध्रुवम् ॥
विशेषत:कलियुगे लघूपायोऽस्ति भूतले ॥२४॥
इति श्रीस्कंदपुराणे रेवाखंडे सत्यनारायणकथायां
प्रथमोऽध्याय: ॥१॥
अध्याय दुसरा
श्रीभगवान्नुवाच ॥ अथान्यत्संप्रवक्ष्यामि कृतं येन पुरा
द्विज ॥ क्वचित्काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धन:
॥१॥
क्षुत्तृड्भ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले ॥
दु:खितं ब्राह्मणं दृष्ट्वा भगवान्ब्राह्मणप्रिय: ॥२॥
वृद्धब्राह्मणरूपस्तं पप्रच्छ द्विजमादरात् । किमर्थं
भ्रमसे विप्र महीं नित्यं सुदु:खित: ॥३॥
तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम ॥ ब्राह्मण
उवाच ॥ ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम्॥४॥
उपायं यदि जानसि कृपया कथय प्रभो । वृद्धब्राह्मण
उवाच ॥ सत्यनारायणो विष्णुर्वांछितार्थफलप्रद: ॥५॥
तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम् ॥ यत्कृत्वा
सर्वदु:खेभ्यो मुक्तो भवति मानव: ॥६॥
विधानं च व्रतस्यापि विप्रायोभाष्य यत्नत: ॥
सत्यनारायणो वृद्धस्तत्रैवांतरधीयत ॥७॥
तद्व्रतं संकरिष्यामि यदुक्तं ब्राह्मणेन वै । इति संचित्य
विप्रोऽसौ रात्रौ निद्रां न लब्धवान् ॥८॥
तत: प्रात: समुत्थाय सत्यनारायणव्रतम् ॥ करिष्य इति
संकल्प्य भिक्षार्थमगमद् द्विज: ॥९॥
तस्मिन्नेव दिने विप्र: प्रचुरं द्रव्यमाप्तवान् ॥ तेनैव
बंधुभि: सार्धं सत्यस्य व्रतमाचरत् ॥१०॥
सर्वदु:खविनिर्मुक्त: सर्वसंपत्समन्वित: ॥ बभूव स
द्विजश्रेष्ठो व्रतस्यास्य प्रभावत: ॥११॥
तत: प्रभृति कालं च मासिमासि व्रतं कृतम् ॥ एवं
नारायणस्येदं व्रतं कृत्वा द्विजोत्तम: ॥
सर्वपापाविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् ॥१२॥
व्रतमस्य यदा विप्र: पृथिव्यां संकरिष्यति ॥ तदैव
सर्वदु:खं च मनुष्यस्य विनश्यति ॥१३॥
एवं नारायणेनोक्तं नारदाय महात्मने ॥ मया तत्कथितं
विप्रा: किमन्यत्कथयामि व: ॥१४॥
ऋषय ऊचु: ॥ तस्माद्विप्राच्छ्रुतं केन पृथिव्यां चरितं
मुने ॥ तत्सर्वं श्रोतुमिच्छाम: श्रद्धाऽस्माकं प्रजायते
॥१५॥
सूत उवाच ॥ शृणवंतु मुनय: सर्वे व्रतं येन कृतं भुवि ।
एकदा स द्विजवरो यथाविभव विस्तरै: ॥१६॥
बंधुभि: स्वजनै: सार्धं व्रतं कर्तुं समुद्यत: ॥ एतस्मिन्नंतरे
काले काष्ठक्रेता समागमत् ॥१७॥
बहि:काष्ठं च संस्थाप्य विप्रस्य गृहमामयौ ॥ तृष्णया
पीडितात्मा च दृष्ट्वा विप्रं कृतव्रतम् ॥१८॥
प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया ॥ कृते किं
फलमाप्नोति विस्तराद्वद मे प्रभो ॥ १९ ॥
विप्र उवाच ॥ सत्यनारायणस्येदं व्रतं सर्वैप्सितप्रदम् ॥
तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥२०॥
तस्मादेतद्व्रतं ज्ञात्वा काष्ठक्रेताऽतिहर्षित: ॥ पपौ जलं
प्रसादं च भुक्त्वा स नगरं ययो ॥२१॥
सत्यनारायणं देवं मनसा इत्यचिंतयत् ॥ काष्ठं विक्रयतो
ग्रामे प्राप्यते चाद्य यद्धनम् ॥२२॥
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ॥ इति संचिंत्य
मनसा काष्ठं धृत्वा तु मस्तके ॥२३॥
जगाम नगरे रम्ये धनिनां यत्र संस्थिति: ॥ तद्दिने
काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥२४॥
तत: प्रसन्नहृदय: सुपक्वं कदलीफलम् । शर्करां
घृतदुग्धं च गोधूमस्य च चूर्णकम् ॥२५॥
कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ ॥ ततो बंधून्
समाहूय चकार विधिना व्रतम् ॥२६॥
तद्व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् ॥ इहलोके
सुखं भुक्त्वा चांते सत्यपुरं ययौ ॥२७॥
इति श्रीस्कंदपुराणे रेवाखंडे
श्रीसत्यनारायणव्रतकथायां द्वितीयोऽध्याय: ॥२८॥
अध्याय तिसरा
सूत उवाच ॥ पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनिसत्तमा: ॥
पुरा चोल्कामुखो नाम नृप आसीन्महीपति: ॥१॥
जितेंद्रिय: सत्यवादी ययौ देवालयं प्रति ॥ दिने दिने
धनं दत्वा द्विजासंतोषयन्सुधी: ॥२॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती ॥ भद्रशीला
नदीतीरे सत्यस्य व्रतमाचरत् ॥३॥
एतस्मिन्नंतरे काले साधुरेक: समागत: ॥ वाणिज्यार्थं
बहुधनैरनैके: परिपूरित: ॥४॥
नावं संस्थाप्य तीरे जगाम नृपतिं प्रति ॥ दृष्ट्वा स
व्रतिनं भूपं पप्रच्छ विनयान्वित: ॥५॥
साधुरुवाच ॥ किमिदं कुरुषे राजन्भक्तियुक्तेन चेतसा
॥ प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि सांप्रतम् ॥६॥
राजोवाच ॥ पूजनं क्रियते साधो विष्णोरतुलतेजस: ॥
व्रतं च स्वजनै: सार्धं पुत्राद्यावाप्तिकाम्यया ॥७॥
भूपस्य वचनं श्रुत्वा साधु: प्रोवाच सादरम् ॥ सर्वं कथय
मे राजन् करिष्येऽहं तवोदितम् ॥८॥
ममापि संततिर्नास्ति एतस्माज्जायते ध्रुवम् ॥ ततो
निवृत्य वाणिज्यात्सोनंदो गृहमागत: ॥९॥
भार्यायै कथितं सर्वं व्रतं संततिदायकम् ॥ तदा व्रतं
करिष्यामि यदा मे संततिर्भवेत् ॥१०॥
इति लीलावतीं प्राह पत्नीं साधु: स सत्तम: ॥
एकस्मिन्दिवसे तस्य भार्या लीलावती सती ॥११॥
भर्तृयुक्तानंदचित्ताऽभवद्धर्मपरायणा ॥ गर्भिणी
साऽभवत्तस्य भार्या सत्यप्रसादत: ॥१२॥
दशमे मासि वै तस्य: कन्यारत्नमजायत ॥ दिने दिने सा
ववृधे शुक्लपक्षे यथा शशी ॥१३॥
नाम्ना कलावती चैति तन्नामकरणं कृतम् ॥ ततो
लीलावती प्राह स्वामिनं मधुरं वच: ॥१४॥
न करोषि किमर्थं वै पुरा संकल्पितं व्रतम् ॥ साधुरुवाच
॥ विवाहसमये त्वस्या: करिष्यामि व्रतं प्रिये ॥१५॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति ।। तत:
कलावती कन्या विवृधे पितृवेश्मनि ॥१६॥
दृष्ट्वा कन्यां तत: साधुर्नगरे सखिभि: सह ॥ मंत्रयित्वा
द्रुतं दूतं प्रेषयामास धर्मवित् ॥१७॥
विवाहार्थं च कन्याया वरं श्रेष्ठं विचार्य ॥ तेनाज्ञप्त
दूतोऽसौ कांचनं नगरं ययौ ॥१८॥
तस्मादेकं वणिक्पुत्रं समादायागतो हि स: ॥ दृष्ट्वा तु
सुंदरं बालं वणिक्पुत्रं गुणान्वितम् ॥१९॥
ज्ञातिभिर्बंधुभि: सार्धं परितुष्टेन चेतसा ॥ दत्तवान्साधु:
पुत्राय कन्यां विधिविधानत: ॥२०॥
ततोऽभाग्यवशात्तेन विस्मृतं व्रतमुत्तमम्, विवाहसमये
तस्यास्तेन रुष्टोऽभवत्प्रभु: ॥२१॥
तत: कालेन नियतो निजकर्मविशारद: ॥ वाणिज्यार्थं
गत: शीघ्रं जामातृसहितो वणिक् ॥२२॥
रत्नसारपुरे रम्ये गत्वा सिंधुसमीपत: ॥
वाणिज्यमकरोत्साधुर्जामात्रा श्रीमता सह ॥२३॥
तौ गतौ नगरे रम्ये चंद्रकेतोर्नृपस्य च ॥ एतस्मिन्नेव
काले तु सत्यनारायण: प्रभु: ॥२४॥
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ॥ दारुणं
कठिनं चास्य मह्द्दु:खं भविष्यति ॥२५॥
एकस्मिन्दिवसे राज्ञो धनमादाय तस्कर: ॥ तत्रैव
चागतश्चौरो वणिजौ यत्र संस्थितौ ॥२६॥
तत्पश्चाद्धावकान्दूतान्दृष्ट्वा भीतेन चेतसा ॥ धनं
संस्थाप्य तत्रैव स तु शीघ्रमलक्षित: ॥२७॥
ततो दूता: समायाता यत्रास्ते सज्जनो वणिक् ॥ दृष्ट्वा
नृपधनं तत्र बद्ध्वा दूतैर्वणिक्सुतौ ॥२८॥
हर्षेण धावमानाश्च ऊचुर्नृपसमीपत: ॥ तस्करौ द्वौ
समानीतौ विलोक्याज्ञापय प्रभो ॥२९॥
राज्ञाज्ञाप्तस्तत: शीघ्रं दृढं बद्ध्वा तु तावुभौ ॥
स्थापितौ द्वौ महागर्ते कारागारेऽविचारत: ॥३२॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वच: ॥ अतस्तयोर्धनं
राजा गृहीतंचंद्रकेतुना ॥३१॥
तच्छापाच्च गृहे तस्य भार्या चैवातिदु:खिता ॥
चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥३२॥
आधिव्याधिसमायुक्ता क्षुत्पिपासादिदु:खिता ॥
अन्नचिंतापर भूत्वा बभ्राम च गृहे गृहे ॥३३॥
कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥
एकस्मिन्दिवसे जाता क्षुधार्ता द्विजमंदिरम् ॥
गत्वाऽपश्यद्व्रतं तत्र सत्यनारायणस्य च ॥३४॥
उपविश्य कथां श्रुत्वा वरं प्रार्थितवत्यपि ॥
प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥३५॥
माता कलावतीं कन्यां पृच्छ्यामास प्रेमत्: ॥ पुत्रि रात्रौ
स्थिता कुत्र किं ते मनसि वर्तते ॥३६॥
कन्या कलावती प्राह मातरं प्रति सत्वरम् ॥ द्विजालये
व्रतं मातर्दृष्टं वांछितसिद्धिदम् ॥३७॥
तच्छ्रुत्वा कन्यकावाक्यं व्रतं कर्तुं समुद्यता ॥ सा मुदा
तु वणिक्भार्या सत्यनारायणस्य च ॥३८॥
व्रतं चक्रे सैव साध्वी बंधुभि” स्वजनै: सह ॥
भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ ३९॥
अपराधं च मे भर्ता जामाता क्षंतुमर्हसि ॥ इति दिव्यं
वरं वव्रे सत्यदेवं पुन: पुन: ॥ व्रतेनानेन तुष्टोऽसौ
सत्यनारायण: प्रभु: ॥४०॥
दर्शयामास स्वप्नं हि चंद्रकेतुं नृपोत्तमम् ॥
बंदिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥४१॥
देयं धनं च तत्सर्वं गृहीतं यत्त्वयाऽधुना ॥ नो चेत्त्वां
नाशयिष्यामि सराज्यधनपुत्रकम् ॥४२॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत्प्रभु: ॥ तत:
प्रभात समये राजा च स्वजनौ: सह ॥४३॥
उपविश्य सभा मध्ये प्राह स्वप्नं जनं प्रति ॥ बद्धौ
महाजनौ शीघ्रं मोचयध्वं वणिक्सुतौ ॥४४॥
इति राज्ञो यच: श्रुत्वा मोचयित्वा महाजनौ ॥ समानीय
नृपस्याग्रे प्राहुस्ते विनयान्विता: ॥४५॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबंधनात् ॥ ततो
महाजनौ नत्वा चंद्रकेतुं नृपोत्तमम् ॥४६॥
स्मरंतौ पूर्ववृत्तांतं मोचतुर्भयविह्वलौ ॥ राजा
वणिक्सुतौ वीक्ष्य वच: प्रोवाच सादरम् ॥४७॥
दैवात्प्राप्तं मह्द्दु:खमिदानीं नास्ति वै भयम् ॥ सदा
निगडसंयोगं क्षौरकर्माद्यकारयत् ॥४८॥
वस्त्रालंकरणं दत्वा परितोष्य नृपस्तौ । पुरस्कृत्य
वणिक्पुत्रौ वचसाऽतोषयद्भृशम् ॥४९॥
पुरा हृंतं तु यद्द्रव्यं द्विगुणीकृत्य दत्तवान् ॥ प्रोवाच तौ
ततो राजा गच्छ साधो निजाश्रमम् ॥५०॥
राजानं प्रणिपत्याह गंतव्यं त्वत्प्रसादत: ॥५१॥
इति श्रीस्कंदपुराणे रेवाखंडे सत्यनारायणव्रतकथायां
तृतीयोऽध्याय: ॥३॥
अध्याय चौथा
सूत उवाच ॥ यात्रां तु
कृतवासाधुर्मंगलायनपूर्वकम् ॥ ब्राह्मणाय धनं दत्वा
तदा तु नगरं ययौ ॥१॥
कियदूरे गते साधौ सत्यनारायण: प्रभु: ॥ जिज्ञासां
कृतवान्साधो किमस्ति तव नौस्थितम् ॥२॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै ॥ कथं पृच्छसि
भो दंडीन्मुद्रां नेतु किमिच्छसि ॥३॥
लतापत्रादिकं चैव वर्तते तरणौ मम ॥ निष्ठुरं च वच:
श्रुत्वा सत्यं भवतु ते वच: ॥४॥
एवमुक्त्वा गत: शीघ्रं दंडी तस्य समीपत: ॥ कियद्दूरॆ
ततो गत्वा स्थित: सिंधुसमीपत: ॥५॥
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ॥ उत्थितां
तरणिं दृष्ट्वा विस्मयं परमं ययौ ॥६॥
दृष्ट्वा लतादिकं चैव मूर्च्छितां न्यपतद्भुवि ॥ लब्धसंज्ञो
वणिक्पुत्रस्ततश्चिंतान्वितोऽभवत् ॥७॥
तदा तु दुहित: कांतो वचनं चेदमब्रवीत् ॥ किमर्थं क्रियते
शोक: शापो दत्तश्च दंडिना ॥८॥
शक्यते तेन सर्वं हि कर्तुं चात्र न संशय: ॥
अतस्तच्छरणं यामो वांछितार्थो भविष्यति ॥९॥
जामातृवचनं श्रुत्वा तत्सकाशं गतस्तदा ॥ दृष्ट्वा च
दंडिनं भक्त्या नत्वा प्रोवाच सादरम् ॥१०॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ । एवं पुन:
पुनर्नत्वा महाशोकाकुलोऽभवत् ॥११॥
प्रोवाच वचनं दंडी विलपंतं विलोक्य च ॥ मा रोदी:
शृणु मद्वाक्यं मम पूजाबहिर्मुख: ॥१२॥
ममाज्ञया च दुर्बुद्धे लब्धं दु:खं मुहुर्मुहु: ॥ तच्छ्रुत्वा
भगवद्वाक्यं स्तुतिं कर्तुं समुद्यत: ॥१३॥
साधुरुवाच ॥ त्वन्मायामोहिता: सर्वे
ब्रह्माद्यास्त्रिदिवौकस: ॥ न जानंति गुणाञ् रूपं
तवाश्चर्यमिदं प्रभो ॥१४॥
मूढोऽहं त्वां कथं जाने मोहितस्तव मायया ॥ प्रसीद
पूजयिष्यामि यथाविभवविस्तरै: ॥१५॥
पुरा वित्तं च तत्सर्वं त्राहि मां शरणागतम् ॥ श्रुत्वा
भक्तियुतं वाक्यं परितुष्टो जनार्दन: ॥१६॥
वरं च वांछितं दत्वा तत्रैवांतर्दधे हरि: ॥ ततो नावं
समारुह्य दृष्ट्वा वित्तप्रपूरिताम् ॥१७॥
कृपया सत्यदेवस्य सफलं वांछितं मम । इत्युक्त्वा
स्वजनै: सार्धं पूजां कृत्वा यथाविधि ॥१८॥
हर्षेण चाभवत्पूर्णसत्यदेवप्रसादत: । नावं संयोज्य
यत्नेन स्वदेशगमनं कृतम् ॥१९॥
साधुर्जामातरं प्राह पश्य रत्नपुरीं मम ॥ दूतं च
प्रेषयामास निजवित्तस्य रक्षकम् ॥२०॥
दूतोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च ॥ प्रोवाच
वांछितं वाक्यं नत्वा बद्धांजलिस्तदा ॥२१॥
निकटे नगरस्यैव जामात्रा सहितो वणिक् ॥ आगतो
बंधुवर्गैश्च बहुभिर्युत: ॥२२॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती ॥ सत्यपूजां
कुरुष्वेति प्रोवाच तनजां प्रति ॥
व्रजामि शीघ्रमागच्छ साधुसंदर्शनाय च ॥२३॥
इति मातृवच: श्रुत्वा व्रतं कृत्वा समाप्य च ॥ प्रसादं च
परित्यज्य गतासाऽपि पतिंप्रति ॥२४॥
तेन रुष्ट: सत्यदेवो भर्तारं तरणिं तथा । संहृत्य च धनै:
सार्धं जले तस्यावमज्जयत् ॥२५॥
तत: कलावती कन्या न विलोक्य निजं पतिम् ॥ शोकेन
महता तत्र रुदती चापतद्भुवि ॥२६॥
दृष्ट्वा तथाविधां नावं कन्यां च बहुदु:खिताम् ॥२७॥
भीतेन मनसा साधु: किमाश्चर्यमिदं भवेत् ॥
चिंत्यमानाश्च ते सर्वे बभूवुस्तरलवाहका: ॥२८॥
ततो लीलावती कन्यां दृष्ट्वा सा विह्वलाऽभवत् ।
विललाप पतिदु:खेन भर्तारं चेदमब्रवीत् ॥२९॥
इदानीं नौकया सार्धं कथं सोऽभूद्दलक्षित: ॥ न जाने
कस्य देवस्य हेलया चैव सा हता ॥३०॥
सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते ॥ इत्युक्त्वा
विललापैव ततश्च स्वजनै: सह ॥३१॥
ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद ह ॥३२॥
तत: कलावती कन्या नष्टे स्वामिनि दु:खिता ॥ गृहीत्वा
पादुके तस्यानुगंतुं च मनो दधे ॥३३॥
कन्यायाश्चरितं दृष्ट्वा सभार्थ: सज्जनो वणिक् ॥
अतिशोकेन संतप्तश्चिंतयामासधर्मवित् ॥ हृतं वा
सत्यदेवेन भ्रांतोऽहं सत्यमायया ॥३४॥
सत्यपूजां करिष्यामि यथाविभवविस्तरै: ॥ इति
सर्वान्समाहूय कथयित्वा मनोरथम् ॥३५ ॥
नत्वा च दंडवद् भूमौ सत्यदेवं पुन:पुन: ॥ ततस्तुष्ट:
सत्यदेवो दीनानां परिपालक: ॥३६॥
जगाद वचनं व्योम्नि कृपया भक्तवत्सल: । त्यक्त्वा
प्रसादं ते कन्या पतिं द्रष्टुं समागता ॥
अतोऽदृष्टोऽभवत्तस्या: कन्यकाया: पतिध्रुवम् ॥३७॥
गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुन: ॥
लब्धभर्त्री सुता साधो भविष्यति न संशय: ॥३८॥
कन्यका तादृशं वाक्यं श्रुत्वा गगनमंडलात् ॥ क्षिप्रं तदा
गृहं गत्वा प्रसादं च बुभोज सा ॥३९॥
सा पश्चात्पुनरागत्य ददर्श स्वजनं पतिम् ॥४०॥
तत: कलावती कन्या जगाद पितरं प्रति ॥ इदानीं च
गृहं याहि विलंबं कुरुषे कथम् ॥४१॥
तच्छ्रुत्वा कन्यकावाक्यं संतुष्टोऽऽभूद्भणिक्सुत: ॥
पूजनं सत्यदेवस्य कृत्वा विधिविधानत: ॥४२॥
धनैर्बंधुगणै: सार्धं जगाम निजमंदिरम् ॥ पौर्णमास्यां च
संक्रांतौ कृतवान्सत्यपूजनम् ॥४३॥
इहलोके सुखं भुक्त्वा चांते सत्यपुरं ययौ ॥४४॥
इति श्रीस्कंदपुराणे रेवाखंडे सत्यनारायणव्रतकथायां
चतुर्थोऽध्याय: ॥
अध्याय पाचवा
सूत उवाच ॥ अथान्यच्च प्रवक्ष्यामि शृणुध्वं
मुनिसत्तमा: ॥ आसीदंगध्वजो राजा प्रजापालनतत्पर:॥१॥
प्रसादं सत्यदेवस्य त्यक्त्वा दु:खमवाप स: ॥ एकदा स
वनं गत्वा हत्वा बहुविधान्पशून् ॥२॥
आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम् ॥ गोपा:
कुर्वंति संतुष्टा भक्तियुक्ता: सबांधवा: ॥३॥
राज दृष्ट्वा तु दर्पेण न गत्वा तं ननाम स: ॥ ततो
गोपगणा: सर्वे प्रसादं नृपसन्निधौ ॥४॥
संस्थाप्य पुनरागत्य भुक्त्वा सर्वे यथेप्सितम् ॥ तत:
प्रसादं संत्यज्य राजा दु:खमवाप स: ॥५॥
तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत् ॥ सत्यदेवेन
तत्सर्वं नाशितं मम निश्चितम् ॥६ ॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ॥ मनसा तु
विनिश्चित्य ययौ गोपालसंनिधौ ॥७॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणै: सह ॥
भक्तिश्रद्धाऽन्वितो भूत्वा चकार विधिना: नृप: ॥८॥
सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत् । इहलोके सुखं
भुक्त्वा चांते सत्यपुरं ययौ ॥९॥
य इदं कुरुते सत्यव्रतं परमदुर्लभम् ॥ शृणोति च कथां
पुण्यां भक्तियुक्त: फलप्रदाम् ॥१०॥
धनधान्यादिकं तस्य भवेत्सत्यप्रसादत: ॥ दरिद्रो लभते
वित्तं बद्धो मुच्येत बंधनात् ॥११॥
भीतो भयात्प्रमुच्यते सत्यमेव व संशय: ॥ ईप्सितं च
फलं भुक्त्वा चांते सत्यपुरं व्रजेत् ॥१२॥
इति व: कथितं विप्रा: सत्यनारायण व्रतम् ॥ यत्कृत्वा
सर्वदु:खेभ्यो मुक्तो भवति मानव:॥१३॥
विशेषत: कलियुगे-सत्यपूजा फलप्रदा ॥ केचित्कालंवदिष्यंति सत्यमीशं तमेव च ॥ सत्यनारायणं
केचित्सत्यदेवं तथापरे ॥१४॥नानारूपधरो भूत्वा सर्वेषामीप्सितप्रद: ॥
भविष्यतिकलौ सत्यव्रतरूपी सनातन: ॥१५॥
य इदं पठते नित्यं शृणोति मुनिसत्तमा: ॥ सत्यं नश्यंतिपापानि सत्यदेवप्रसादत: ॥१६॥
इति श्रीस्कंदंपुराणे रेवाखंडे सत्यनारायणव्रतकथायां
पंचमोऽध्यायां ॥

Book the Best Guruji, Pandit and Marathi Bhatji for Your Rituals in Dombivli, Thane, Mumbai, Pune, and Nashik.
गुरुजींसाठी खालील फॉर्म भरा
